वांछित मन्त्र चुनें

यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥

मन्त्र उच्चारण
पद पाठ

याम् । द्विऽपाद: । पक्षिण: । सम्ऽपतन्ति । हंसा: । सुऽपर्णा: । शकुना: । वयांसि । यस्याम् । वात: । मातरिश्वा । ईयते । रजांसि । कृण्वन् । च्यवयन् । च । वृक्षान् । वातस्य । प्रऽवाम् । उपऽवान् । अनु । वाति । अर्चि: ॥१.५१॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:51


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (याम्) जिस पर (द्विपादः) दो पाँववाले (पक्षिणः) पक्षी [अर्थात्] (हंसाः) हंस, (सुपर्णाः) बड़े उड़नेवाले, [गरुड़ आदि], (शकुनाः) शक्तिवाले [गिद्ध चील आदि] (वयांसि) पक्षीगण (संपतन्ति) उड़ते रहते हैं। (यस्याम्) जिस पर (मातरिश्वा) आकाश में चलनेवाला (वातः) वायु (रजांसि) जलवाले बादलों को (कृण्वन्) बनाता हुआ (च) और (वृक्षान्) वृक्षों को (च्यावयन्) हिलाता हुआ (ईयते) चलता है। और (अर्चिः) प्रकाश (वातस्य) वायु के (प्रवाम्) फैलाव और (उपवाम् अनु) संकोच के साथ-साथ (वाति) चलता है ॥५१॥
भावार्थभाषाः - मनुष्य पक्षियों, वायु, मेघ, प्रकाश आदि के ज्ञान और गुणों से लाभ उठाकर आनन्दित होवें−इस मन्त्र का अन्वय अगले मन्त्र ५२ के साथ है ॥५१॥ इस मन्त्र का दूसरा पाद अ० ११।२।२४। के दूसरे पाद में आया है ॥
टिप्पणी: ५१−(याम्) पृथिवीम् (द्विपादः) पादद्वयोपेताः (पक्षिणः) (संपतन्ति) उड्डीयन्ते (हंसाः) पक्षिविशेषाः (सुपर्णाः) शोभनपतना गरुडादयः (शकुनाः) शक्तिमन्तो गृध्रचिल्लादयः (वयांसि) पक्षिणः (यस्याम्) (वातः) वायुः (मातरिश्वा) अ–० ५।१०।८। अन्तरिक्षगामी (ईयते) गच्छति (रजांसि) अ–० ४।१।४। उदकं रज उच्यते−निरु–० ४।१९। उदकवतो मेघान् (कृण्वन्) कुर्वन्। रचयन् (च्यवयन्) सांहितिको दीर्घः। गमयन्। कम्पयन् (च) (वृक्षान्) (वातस्य) वायोः (प्रवाम्) वा गतौ−क्विप्। प्रकृष्टां गतिम्। प्रसृतिम्। (उपवाम्) समीपगतिम्। संकोचम् (अनु) अनुसृत्य (वाति) गच्छति (अर्चिः) प्रकाशः ॥