वांछित मन्त्र चुनें

यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥

मन्त्र उच्चारण
पद पाठ

यस्याम् । पूर्वे । पूर्वऽजना: । विऽचक्रिरे । यस्याम् । देवा: । असुरान् । अभिऽअवर्तयन् । गवाम् । अश्वानाम् । वयस: । च । विऽस्था । भगम्। वर्च: । पृथिवी । न: । दधातु ॥१.५॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (यस्याम्) जिस [पृथिवी] पर (पूर्वे) पूर्वकाल में (पूर्वजनाः) पूर्वजों ने (विचक्रिरे) बढ़कर कर्तव्य किये हैं, (यस्याम्) जिस पर (देवाः) देवताओं [विजयी जनों] ने (असुरान्) असुरों [दुष्टों] को (अभ्यवर्तयन्) हराया है। (गवाम्) गौओं, (अश्वानाम्) अश्वों (च) और (वयसः) अन्न की (विष्ठा) चौकी [ठिकाना], (पृथिवी) वह पृथिवी (नः) हम को (भगम्) ऐश्वर्य और (वर्चः) तेज (दधातु) देवे ॥५॥
भावार्थभाषाः - जिस प्रकार पूर्वजों ने विघ्नों को हटाकर कर्तव्य करके ऐश्वर्य पाया है, इसी प्रकार मनुष्य पुरुषार्थ करके ऐश्वर्यवान् और प्रतापवान् होवें ॥५॥
टिप्पणी: ५−(यस्याम्) पृथिव्याम् (पूर्वे) पूर्वस्मिन् काले (पूर्वजनाः) पूर्वजाः पुरुषाः (विचक्रिरे) विशेषेण कर्तव्यानि कृतवन्तः (यस्याम्) (देवाः) विजिगीषवः (असुरान्) दुष्टान् (अभ्यवर्तयन्) अभिभूतवन्तः। पराजितवन्तः (गवाम्) धेनूनाम् (अश्वानाम्) घोटकानाम् (वयसः) अन्नस्य−निघ० २।७। (च) (विष्ठा) विशेषस्थितिस्थानम् (भगम्) ऐश्वर्यम् (वर्चः) तेजः (पृथिवी) (नः) अस्मभ्यम् (दधातु) ददातु ॥