वांछित मन्त्र चुनें

यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑। क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । सर्प: । वृश्चिक: । तृष्टऽदंश्मा । हेमन्तऽजब्ध: । भृमल: । गुहा । शये । क्रिमि: । जिन्वत् । पृथिवि । यत्ऽयत् । एजति । प्रावृषि । तत् । न: । सर्पत् । मा । उप । सृपत् । यत् । शिवम् । तेन । न: । मृड ॥१.४६॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:46


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (तृष्टदंश्मा) डंक मारने से पियास उत्पन्न करनेवाला (सर्पः) साँप [वा] (वृश्चिकः) बिच्छू (हेमन्तजब्धः) ठण्ड से ठिठरा हुआ, (भृमलः) भ्रमल [घबड़ाता हुआ] (ते) तेरे (गुहा) गढ़े में (शये) सोता है। (क्रिमिः) [जो] कीड़ा और (यद्यत्) जो-जो (प्रावृषि) वर्षा ऋतु में (जिन्वत्) प्रसन्न होता हुआ (एजति) रेंगता है, (पृथिवि) हे पृथिवि ! (तत्) वह (सर्पत्) रेंगता हुआ [जन्तु] (नः) हम पर (मा उप सृपत्) आकर न रेंगे, (यत्) जो कुछ (शिवम्) मङ्गल है, (तेन) उस से (नः) हमें (मृड) सुखी कर ॥४६॥
भावार्थभाषाः - मनुष्य सदा सावधान रहें कि सब ऋतुओं में दुष्ट जीव-जन्तुओं से उन्हें क्लेश न होवे ॥४६॥
टिप्पणी: ४६−(यः) (ते) तव (सर्पः) भुजङ्गः (वृश्चिकः) अ० १०।४।९। कीटभेदः (तृष्टदंश्मा) दंश−मनिन्। यस्य दंशनेन तृषा भवति सः (हेमन्तजब्धः) जभ हिंसायाम्−क्त। हेमन्तेन हिंसितः (भृमलः) वृषादिभ्यश्चित्। उ० १।१०६। भ्रमु अनवस्थाने−कलप्रत्ययः संप्रसारणं च। अनवस्थितमनाः (गुहा) गर्ते (शये) तलोपः। शेते (क्रिमिः) क्षुद्रजन्तुः (जिन्वत्) तृप्यत् (पृथिवि) (यद्यत्) (एजति) चेष्टते (प्रावृषि) क्विब् वचिप्रच्छिश्रि०। उ० २।५७। प्र+वृषु सेचने−क्विप् दीर्घश्च। वर्षाकाले (तत्) सत्त्वम्। जन्तुः (नः) अस्मान् (सर्पत्) सर्पणं कुर्वत् (उप) समीपे (मा सृपत्) न सर्पतु (यत्) (शिवम्) मङ्गलम् (तेन) (नः) अस्मान् (मृड) सुखय ॥