वांछित मन्त्र चुनें
देवता: भूमिः ऋषि: अथर्वा छन्द: अनुष्टुप् स्वर: भूमि सूक्त

उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः। प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ॥

मन्त्र उच्चारण
पद पाठ

उत्ऽईराणा: । उत । आसीना: । तिष्ठन्त: । प्रऽक्रामन्त: । पत्ऽभ्याम् । दक्षिणऽसव्याभ्याम् । मा । व्यथिष्महि । भूम्याम् ॥१.२८॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:28


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (उदीराणाः) उठते हुए (उत) और (आसीनाः) बैठे हुए (तिष्ठन्तः) खड़े होते हुए और (प्रक्रामन्तः) चलते-फिरते हुए हम (दक्षिणसव्याभ्याम्) दोनों सीधे और डेरे (पद्भ्याम्) पाँवों से (भूम्याम्) भूमि पर (मा व्यथिष्महि) न डगमगावें ॥२८॥
भावार्थभाषाः - मनुष्य पृथिवी पर सावधान और स्वस्थ रहकर सदा सब को सुख देवें ॥२८॥
टिप्पणी: २८−(उदीराणाः) ईर गतौ−शानच्। उद्गच्छन्तः (उत) अपि च (आसीनाः) उपविष्टाः (तिष्ठन्तः) गतिनिवृत्तिं कुर्वन्तः (प्रक्रामन्तः) प्रकर्षेण पादविक्षेपं कुर्वन्तः (पद्भ्याम्) चरणाभ्याम् (दक्षिणसव्याभ्याम्) दक्षिणवामाभ्याम् (मा व्यथिष्महि) व्यथ भयसंचलनयोः−लुङ्। न संचलेम (भूम्याम्) ॥