वांछित मन्त्र चुनें

यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्यायां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । गन्ध: । पुरुषेषु । स्त्रीषु । पुम्ऽसु । भग: । रुचि: । य: । अश्वेषु । वीरेषु । य: । मृगेषु । उत । हस्तिषु । कन्यायाम् । वर्च: । यत् । भूमे । तेन । अस्मान् । अपि । सम् । सृज । मा । न: । द्विक्षत । क: । चन ॥२.२५॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:25


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (ते) तेरा (गन्धः) गन्ध [अंश] (पुरुषेषु) अग्रगामी (पुंसु) रक्षक मनुष्यों में और (स्त्रीषु) स्त्रियों में (भगः) सेवनीय ऐश्वर्य और (रुचिः) कान्ति है। (यः) जो [गन्ध] (वीरेषु) वेगवान् (अश्वेषु) घोड़ों में (उत) और (यः) जो (मृगेषु) हरिणों में और (हस्तिषु) हाथियों में है और (यत्) जो (वर्चः) तेज (कन्यायाम्) चमकती हुई कन्या [कन्या आदि राशि ज्योतिश्चक्र] में है, (भूमे) हे भूमि ! (तेन) उस [तेज] के साथ (अस्मान् अपि) हमें भी (सं सृज) मिला, (कश्चन) कोई भी [प्राणी] (मा) मुझ से (मा द्विक्षत) वैर न करे ॥२५॥
भावार्थभाषाः - पृथिवी का आश्रय लेकर संसार के देहधारी मनुष्य आदि सब प्राणी और अन्तरिक्ष के तारागण आदि सब लोक स्थित हैं, वैसे ही मनुष्य सब प्रकार उपकारी और तेजस्वी होकर विघ्नों का नाश करें ॥२५॥
टिप्पणी: २५−(यः) (ते) (गन्धः) (पुरुषेषु) पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ−कुषन्। अग्रगामिषु (स्त्रीषु) (पुंसु) पातेर्डुमसुन्। उ० ४।१७८। पा रक्षणे डुमसुन्। रक्षकेषु मनुष्येषु (भगः) सेवनीयमैश्वर्यम् (रुचिः) कान्तिः (यः) (अश्वेषु) तुरङ्गेषु (वीरेषु) वि+ईर गतौ−अच्। वेगवत्सु (यः) (मृगेषु) हरिणेषु (हस्तिषु) गजेषु (कन्यायाम्) अघ्न्यादयश्च। उ० ४।११२। कन प्रीतौ द्युतौ गतौ−यक्, टाप् च। कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्तिकर्मणः−निरु० ४।१५। मेषादितः षष्ठे राशौ। ज्योतिश्चक्रे (वर्चः) तेजः (यत्) (भूमे) (तेन) वर्चसा (अस्मान्) (अपि) (संसृज) संजनय। संयोजय। अन्यत् पूर्ववत्−म० २४ ॥