यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
य: । ते । गन्ध: । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधय: । यम् । आप: । यम् । गन्धर्वा: । अप्सरस: । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । न: । द्विक्षत । क: । चन ॥१.२३॥
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
