वांछित मन्त्र चुनें

भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑। सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥

मन्त्र उच्चारण
पद पाठ

भूम्याम् । देवेभ्य: । ददति । यज्ञम् । हव्यम् । अरम्ऽकृतम् । भूम्याम् । मनुष्या: । जीवन्ति । स्वधया । अन्नेन । मर्त्या: । सा । न: । भूमि: । प्राणम् । आयु: । दधातु । जरत्ऽअष्टिम् । मा । पृथिवी । कृणोतु ॥१.२२॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:22


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (भूम्याम्) भूमि पर (देवेभ्यः) उत्तम गुणों के लिये (मनुष्याः) मनुष्य (हव्यम्) देने-लेने योग्य, (अरंकृतम्) शोभित करनेवाले वा शक्तिमान् करनेवाले (यज्ञम्) संगतिकरण व्यवहार को (ददति) दान करते हैं। (भूम्याम्) भूमि पर (मर्त्याः) मनुष्य (स्वधया) अपनी धारण शक्ति से (अन्नेन) अन्न द्वारा (जीवन्ति) जीवते हैं। (सा भूमिः) वह भूमि (नः) हम को (प्राणम्) प्राण [आत्मबल] और (आयुः) आयु [जीवन] (दधातु) देवे, और [वही] (पृथिवी) पृथिवी (मा) मुझ को (जरदष्टिम्) स्तुति के साथ प्रवृत्ति वा भोजनवाला (कृणोतु) करे ॥२२॥
भावार्थभाषाः - जिस प्रकार मनुष्य उत्तम पुरुषों से मिलकर श्रेष्ठ-श्रेष्ठ गुण प्राप्त करते और दूसरों को प्राप्त कराते हैं, उसी प्रकार हम उत्तम गुण प्राप्त करके अपना जीवन श्रेष्ठ बनावें ॥२२॥
टिप्पणी: २२−(भूम्याम्) (देवेभ्यः) कमनीयगुणानां प्राप्तये (ददति) प्रयच्छन्ति (यज्ञम्) संगतिव्यवहारम् (हव्यम्) दानादानयोग्यम् (अरंकृतम्) अलम्+करोतेः−क्विप्। शोभितं शक्तिमन्तं वा करोतीति तम् (भूम्याम्) (मनुष्याः) (जीवन्ति) प्राणान् धारयन्ति (स्वधया) स्व+दधातेः क्विप्। आत्मधारणशक्त्या (अन्नेन) जीवनसाधनेन (मर्त्याः) (सा) (नः) अस्मभ्यम् (प्राणम्) आत्मबलम् (आयुः) जीवनम् (दधातु) ददातु (जरदष्टिम्) अ० २।२८।५। जीर्यतेरतृन् पा० ३।२।१०४। जॄ स्तुतौ−अतृन्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। अशू व्याप्तौ अश भोजने च−क्तिन्। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्भोजनं वा यस्य तम् (मा) माम् (पृथिवी) भूमिः (कृणोतु) करोतु ॥