त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः। तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥
त्वत् । जाता: । त्वयि । चरन्ति । मर्त्या: । त्वम् । बिभर्षि: । द्विऽपद: । त्वम् । चतु:ऽपद: । तव । इमे । पृथिवि । पञ्च । मानवा: । येभ्य: । ज्योति: । अमृतम् । मर्त्येभ्य: । उत्ऽयन् । सूर्य: । रश्मिऽभि: । आऽतनोति ॥१.१५॥
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
