वांछित मन्त्र चुनें
685 बार पढ़ा गया

यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः संबभू॒वुः। तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥

मन्त्र उच्चारण
पद पाठ

यत् । ते । मध्यम् । पृथिव‍ि । यत् । च । नभ्यम् । या: । ते । ऊर्ज: । तन्व: । सम्ऽबभूवु: । तासु । न: । धेहि । अभि । न: । पयस्व । माता । भूमि: । पुत्र: । अहम् । पृथिव्या: । पर्जन्य: । पिता । स: । ऊं इति । न: । पिपर्तु ॥१.१२॥

अथर्ववेद » काण्ड:12» सूक्त:1» पर्यायः:0» मन्त्र:12


पण्डित क्षेमकरणदास त्रिवेदी

राज्य की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (पृथिवी) हे पृथिवी ! (यत्) जो (ते) तेरा (मध्यम्) न्याययुक्त कर्म है, (च) और (यत्) जो (नभ्यम्) क्षत्रियों का हितकारी कर्म है, और (याः) जो (ऊर्जः) बलदायक [अन्न आदि] पदार्थ (ते) तेरे (तन्वः) शरीर से (संबभूवुः) उत्पन्न हुए हैं। (तासु) उन सब [क्रियाओं] के भीतर (नः) हम को (धेहि) तू रख, और (नः) हमें (अभि) सब ओर से (पवस्व) शुद्ध कर, (भूमिः) भूमि (माता) [मेरी] माता [तुल्य है], (अहम्) मैं (पृथिव्याः) पृथिवी का (पुत्रः) पुत्र [नरक, महाकष्ट से बचानेवाला हूँ]। (पर्जन्यः) सींचनेवाला मेघ (पिता) [मेरे] पिता [तुल्य पालक है], (सः) वह (उ) भी (नः) हमें (पिपर्तु) पूर्ण करे ॥१२॥
भावार्थभाषाः - मनुष्य नीतिविद्या, भूगर्भविद्या, भूतलविद्या और मेघविद्या आदि में निपुण होकर पृथिवी को उपकारी और सुखदायक बनावें ॥१२॥
टिप्पणी: १२−(यत्) (ते) तव (मध्यम्) अघ्न्यादयश्च। उ० ४।११२। मन ज्ञाने−यक्। न्यायकर्म (पृथिवी) हे भूमे (यत्) (च) (नभ्यम्) उगवादिभ्यो यत्। पा० ५।१।२। नाभि−यत्। नाभि नभं च, इति नभादेशः। नाभिभ्यः क्षत्रियेभ्यो हितं कर्म। (याः) (ते) तव (ऊर्जः) बलवर्धका अन्नादिपदार्थाः (तन्वः) शरीरात् (संबभूवुः) उत्पन्ना बभूवुः (तासु) सर्वासु क्रियासु (नः) अस्मान् (धेहि) धर (अभि) सर्वतः (नः) अस्मान् (पवस्व) शोधय (माता) जननी यथा (भूमिः) (पुत्रः) अ० १।११।५। पुन्नरकं ततस्त्रायते−निरु० २।११। दुःखाद्रक्षकः (अहम्) (पृथिव्याः) (पर्जन्यः) सेचको मेघः (पिता) जनको यथा पालकः (सः) (उ) (नः) अस्मान् (पिपर्तु) पॄ पालनपूरणयोः। पूरयतु ॥