गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥
गिरय: । ते । पर्वता: । हिमऽवन्त: । अरण्यम् । ते । पृथिवि । स्योनम् । अस्तु । बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् । अजीत: । अहत: । अक्षत: । अधि । अस्थाम् । पृथिवीम् । अहम् ॥१.११॥
पण्डित क्षेमकरणदास त्रिवेदी
राज्य की रक्षा का उपदेश।
