वांछित मन्त्र चुनें

अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥

मन्त्र उच्चारण
पद पाठ

अलिक्लवा: । जाष्कमदा: । गृध्रा: । श्येना: । पतत्रिण: । ध्वाङ्क्षा: । शकुनय: । तृप्यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.९॥

अथर्ववेद » काण्ड:11» सूक्त:9» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अलिक्लवाः) अपने बल से भय देनेवाले [चील आदि] (जाष्कमदाः) हिंसा में सुख मनानेवाले [सारस आदि], (गृध्राः) खाऊ [गिद्ध], (श्येनाः) श्येन [बाज], (ध्वाङ्क्षाः) कौवे, (शकुनयः) चीलें, (पतत्रिणः) पक्षीगण (तृप्यन्तु) तृप्त होवें, [जिन पक्षियों को] (अमित्रेषु) अमित्रों पर (समीक्षयन्) दिखाता हुआ, तू (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (तव) अपने (रदिते) तोड़-फोड़ कर्म में [वर्तमान हो] ॥९॥
भावार्थभाषाः - शूर सेनापति शत्रुओं को युद्ध में मारकर गिरा दे और चील आदि मांसभक्षक पक्षी उनकी लोथों को नोंच-नोंच कर खावें ॥९॥
टिप्पणी: ९−(अलिक्लवाः) अ० ११।२।२। अलिना शक्त्या स्वबलेन भयानकाः पक्षिणः (जाष्कमदाः) इण्भीकापा–०। उ० ३, ४३। जष हिंसायाम्-कन्, छान्दसी वृद्धिः+मदी हर्षे-पचाद्यच्। हिंसने हर्षशीलाः। सारसादयः पक्षिणः (गृध्राः) मांसभक्षकाः खगविशेषाः (श्येनाः) अ० ३।३।३। शीघ्रगतयः पक्षिविशेषाः (पतत्त्रिणः) अ० १।१५।१। पक्षिणः (ध्वाङ्क्षाः) ध्वाक्षि घोरशब्दे-अच्। काकाः (शकुनयः) अ० ७।६४।१। विल्लपक्षिणः (तृप्यन्तु) हृष्यन्तु (अमित्रेषु) शत्रुषु (समीक्षयन्) म० ६−त्वं सम्यग् दर्शयन् यान् पक्षिणः (रदिते) विदारणे, त्वं वर्त्तस्वेति शेषः (अर्बुदे) म० १। हे शूर सेनापते राजन् (तव) स्वकीये ॥