वांछित मन्त्र चुनें

उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥

मन्त्र उच्चारण
पद पाठ

उत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् । अमित्राणाम् । सेना: । अभि । धत्तम् । अर्बुदे ॥११.३॥

अथर्ववेद » काण्ड:11» सूक्त:9» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अर्बुदे) हे अर्बुदि ! [हे शूर सेनापति राजन् और प्रजागण] तुम दोनों (उत् तिष्ठतम्) खड़े हो जाओ, (आदानसन्दानाभ्याम्) दोनों पकड़ने और बाँधने के यन्त्रों से [युद्ध] (आ रभेथाम्) आरम्भ करो, और (अमित्राणाम्) वैरियों की (सेनाः) सेनाओं को (अभि धत्तम्) तुम दोनो बाँध लो ॥३॥
भावार्थभाषाः - सेनापति राजा और सब प्रजागण मिलकर वीरता के साथ अनेक यन्त्रसमूहों से शत्रुओं को घेर लेवें ॥३॥
टिप्पणी: ३−(उत्तिष्ठतम्) उच्चलतम् (आरभेथाम्) युद्धमुपक्रमेथाम् (आदानसन्दानाभ्याम्) आदीयते-गृह्यत अनेनेति आदानं ग्रहणयन्त्रम्, सन्दीयते बध्यते अनेनेति बन्धनयन्त्रम्। ताभ्यां यन्त्राभ्याम् (अमित्राणाम्) शत्रूणाम् (सेनाः) (अभिधत्तम्) युवां बध्नीतम् (अर्बुदे) म० १। हे शूर सेनापते त्वम् हे राजागण त्वं च युवाम् ॥