ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये। त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
ये । च । धीरा: । ये । च । अधीरा: । पराञ्च: । बधिरा: । च । ये । तमसा: । ये । च । तूपरा: । अथो इति । बस्तऽअभिवासिन:। सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.२२॥
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्त्तव्य का उपदेश।
