वांछित मन्त्र चुनें

उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु। शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ॥

मन्त्र उच्चारण
पद पाठ

उत् । कसन्तु । हृदयानि । ऊर्ध्व: । प्राण: । उत् । ईषतु । शौष्कऽआस्यम् । अनु । वर्तताम् । अमित्रान् । मा । उत । मित्रिण: ॥१९.२१॥

अथर्ववेद » काण्ड:11» सूक्त:9» पर्यायः:0» मन्त्र:21


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - [शत्रुओं के] (हृदयानि) हृदय (उत् कसन्तु) उकस जावें [हिल जावें], (प्राणः) प्राण [श्वास-प्रश्वास] (ऊर्ध्वः) ऊँचा होकर (उत् ईषतु) चढ़ जावे। (शौष्कास्यम्) मुख की सुखाई (अमित्रान् अनु) शत्रुओं को (वर्तताम्) व्यापे, (उत) और (मित्रिणः) [हमारे लिये] मित्र रखनेवाले जनों को (मा) न [व्यापे] ॥२१॥
भावार्थभाषाः - जो लोग अपने मित्रों सहित हमारे सहायक होते हैं, उन वीरों के भय से शत्रुदल व्याकुल होकर कष्ट पावें और धर्मात्मा लोग सुख पावें ॥२१॥
टिप्पणी: २१−(उत् कसन्तु) कस गतौ। उद्गच्छन्तु (हृदयानि) अन्तःकरणानि (ऊर्ध्वः) उच्चगतिः सन् (प्राणः) श्वासप्रश्वासव्यापारः (उदीषतु) ईष गतौ। निर्गच्छतु (शौष्कास्यम्) शुष्कास्यता। मुखस्य निर्द्रवत्वम् (अनु) प्रति (वर्तताम्) व्याप्यताम् (अमित्रान्) पीडकान् (मा) निषेधे (उत) अपि च (मित्रिणः) मित्र-इनि। अस्मभ्यं मित्राणि सन्ति येषां तान् जनान्-अनु-वर्ततामिति शेषः ॥