वांछित मन्त्र चुनें

उद्वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑। जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ॥

मन्त्र उच्चारण
पद पाठ

उत् । वेपय । त्वम् । अर्बुदे । अमित्राणाम् । अमू: । सिच: । जयन् । च । जिष्णु: । च । अमित्रान् । जयताम् । इन्द्रऽमेदिनौ ॥११.१८॥

अथर्ववेद » काण्ड:11» सूक्त:9» पर्यायः:0» मन्त्र:18


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (त्वम्) तू (अमित्राणाम्) शत्रुओं की (अमूः) उन (सिचः) सेचनशील [उमड़ती हुई सेनाओं] को (उत् वेपय) कँपा दे। (जयन्) जीतता हुआ [प्रजागण] (च च) और (जिष्णुः) विजयी [राजा], (इन्द्रमेदिनौ) जीवों के स्नेही आप दोनों (अमित्रान्) वैरियों को (जयताम्) जीतें ॥१८॥
भावार्थभाषाः - परस्पर प्रसन्नचित्त प्रजागण और राजगण शत्रुओं की सहायक सेनाओं को तुरन्त जीत लेवें ॥१८॥
टिप्पणी: १८−(उत्) उत्कर्षेण (वेपय) म० १२। कम्पय (त्वम्) (अर्बुदे) म० १। शूर सेनापते राजन् (अमित्राणाम्) शत्रूणाम् (अमूः) दृश्यमानाः (सिचः) षिच आर्द्रीकरणे-क्विप्। सेचनशीलाः सहायिकाः सेनाः (जयन्) सांहितिको दीर्घः। पराभावयन् प्रजागणः (जिष्णुः) जयशीलः सेनापतिः (च) (अमित्रान्) शत्रून् (जयताम्) पराभावयताम् (इन्द्रमेदिनौ) म० ४। जीवानां स्नेहिनौ राजप्रजागणौ ॥