नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
पद पाठ
निन्दा: । च । वै । अनिन्दा: । च । यत् । च । हन्त । इति । न । इति । च । शरीरम् । श्रध्दा । दक्षिणा । अश्रध्दा । च । अनु । प्र । अविशन् ॥१०.२२॥
अथर्ववेद » काण्ड:11» सूक्त:8» पर्यायः:0» मन्त्र:22
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (निन्दाः) निन्दाएँ [गुणों में दोष लगाने] (च च वै) और भी (अनिन्दाः) अनिन्दाएँ [स्तुति, गुणों के कथन] (च) और (यत्) जो कुछ (हन्त)हां−(इति) ऐसा, (च) और (न)ना−(इति) ऐसा है और (दक्षिणा) दक्षिणा [प्रतिष्ठा], (श्रद्धा) श्रद्धा [सत्य ईश्वर और वेद में विश्वास] (च) और (अश्रद्धा) अश्रद्धा [ईश्वर और वेद में भक्ति न होना] [इन सब ने] (शरीरम्) शरीर में (अनु) धीरे-धीरे (प्र अविशन्) प्रवेश किया ॥२२॥
भावार्थभाषाः - मनुष्य विहित कर्मों के करने और निषिद्ध कर्मों को छोड़ने से सुसंस्कार के कारण शरीर द्वारा सुख प्राप्त करता है ॥२२॥
टिप्पणी: २२−(निन्दाः) गुरोश्च हलः। पा० ३।३।१०३। णिदि कुत्सायाम्-अ प्रत्ययः। गुणेषु दोषारोपाः (च च) समुच्चये (वै) एव (अनिन्दाः) स्तुतयः। गुणकथनानि (च) (यत्) (च) (हन्त) हन हिंसागत्योः-त प्रत्ययः। हर्षे। स्वीकारे कर्मणां विधिसूचकः शब्दः (इति) वाक्यसमाप्तौ (न) निषेधे। कर्मणां निषेधसूचकः शब्दः (इति) (च) (शरीरम्) (श्रद्धा) सत्ये परमेश्वरे वेदे च विश्वासः (दक्षिणा) प्रतिष्ठा (अश्रद्धा) नास्तिकबुद्धिः। अन्यत् पूर्ववत् ॥
