अ॑ग्न्या॒धेय॒मथो॑ दी॒क्षा का॑म॒प्रश्छन्द॑सा स॒ह। उत्स॑न्ना य॒ज्ञाः स॒त्राण्युच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥
पद पाठ
अग्निऽआधेयम् । अथो इति । दीक्षा । कामऽप्र: । छन्दसा । सह । उत्ऽसन्ना: । यज्ञा: । सत्त्राणि । उत्ऽशिष्टे । अधि । सम्ऽआहिता: ॥९.८॥
अथर्ववेद » काण्ड:11» सूक्त:7» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (अग्न्याधेयम्) अग्न्याधान [अग्नि की स्थापना] (अथो) और (दीक्षा) दीक्षा [नियमपालन व्रत] (छन्दसा सह) वेद के साथ (कामप्रः) कामनापूरक व्यवहार, (उत्सन्नाः) ऊँचे चढ़े हुए (यज्ञाः) यज्ञ [पूजनीय व्यवहार] और (सत्राणि) बैठकें (उच्छिष्टे) शेष [म० १। परमात्मा] में (अधि) अधिकारपूर्वक (समाहिताः) एकत्र किये गये हैं ॥८॥
भावार्थभाषाः - परमेश्वर ने अपने सामर्थ्य से मनुष्य को यथावत् उन्नति करने के लिये वेद के साथ सत्यव्रत धारण आदि नियमों का उपदेश किया है ॥८॥
टिप्पणी: ८−(अग्न्याधेयम्) अग्नि+आ+दधातेः-यत्। वाजपेयवत् सिद्धिः-म० ७। अग्न्याधानम् (अथो) अपि च (दीक्षा) अ० ८।५।१५। नियमपालनव्रतम् (कामप्रः) आतोऽनुपसर्गे कः। पा० ३।२।३। काम+प्रा पूरणे-क। कामनापूरको व्यवहारः (छन्दसा) वेदेन (सह) साकम् (उत्सन्नाः) उत्+षद्लृ विशरणगत्यवसादनेषु-क्त। ऊर्ध्वं गताः। उन्नताः (यज्ञाः) पूजनीया व्यवहाराः (सत्राणि) गुधृपचिवचियमिसदि०। उ० ४।१६७। षद्लृ विशरणगत्यवसादनेषु-त्र। सदनानि। सभास्थानानि (उच्छिष्टे) (अधि) अधिकारपूर्वकम् (समाश्रिताः) राशीकृताः ॥
