ऋ॒तं स॒त्यं तपो॑ रा॒ष्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च। भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥
पद पाठ
ऋतम् । सत्यम् । तप: । राष्ट्रम् । श्रम: । धर्म: । च । कर्म । च । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मी: । बलम् । बले ॥९.१७॥
अथर्ववेद » काण्ड:11» सूक्त:7» पर्यायः:0» मन्त्र:17
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (ऋतम्) सत्य शास्त्र, (सत्यम्) सत्यवचन, (तपः) तप [इन्द्रियदमन], (राष्ट्रम्) राज्य, (श्रमः) परिश्रम (च) और (धर्मः) धर्म [पक्षपातरहित न्याय और सत्य आचरण] (च) और (कर्म) कर्म। (भूतम्) उत्पन्न हुआ और (भविष्यत्) उत्पन्न होनेवाला जगत्, (वीर्यम्) वीरता, (लक्ष्मीः) लक्ष्मी [सर्वसम्पत्ति] और (बले) बले के भीतर [वर्तमान] (बलम्) बल (उच्छिष्टे) शेष [म० १। परमात्मा] में हैं ॥१७॥
भावार्थभाषाः - मनुष्य सर्वशक्तिमान् परमेश्वर की उपासना से सत्य व्यवहार वीरता आदि करके लक्ष्मीवान् होवें ॥१७॥
टिप्पणी: १७−(ऋतम्) सत्यशास्त्रम्। यथार्थसंकल्पनम् (सत्यम्) यथार्थभाषणम् (तपः) इन्द्रियदमनम् (राष्ट्रम्) राज्यम् (श्रमः) परिश्रमः (धर्मः) अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। धृञ् धारणे-मन्। ध्रियते सुखप्राप्तये सेव्यते स धर्मः। पक्षपातरहितो न्यायः। सत्याचारः (कर्म) विहितं कार्यम् (च) (भूतम्) उत्पन्नं जगत् (भविष्यत्) उत्पत्स्यमानम् (उच्छिष्टे) (वीर्यम्) वीरकर्म (लक्ष्मीः) लक्षेर्मुट् च। उ० ३।१६०। लक्ष दर्शने अङ्कने च। ई प्रत्ययो मुट् च। दर्शनीया सर्वसम्पत्तिः (बलम्) सामर्थ्यम् (बले) सामर्थ्ये ॥
