पि॒ता ज॑नि॒तुरुच्छि॒ष्टोऽसोः॒ पौत्रः॑ पिताम॒हः। स क्षि॑यति॒ विश्व॒स्येशा॑नो॒ वृषा॒ भूम्या॑मति॒घ्न्यः ॥
पद पाठ
पिता । जनितु: । उत्ऽशिष्ट: । असो: । पौत्र: । पितामह: । स: । क्षियति । विश्वस्य । ईशान: । वृषा । भूम्याम् । अतिऽघ्न्य: ॥९.१६॥
अथर्ववेद » काण्ड:11» सूक्त:7» पर्यायः:0» मन्त्र:16
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (उच्छिष्टः) शेष [म० १। परमात्मा] (जनितुः) जनक [हमारे उत्पादक] का (पिता) पिता और (असोः) प्राण [हमारे जीवन] का (पौत्रः) पोता [पुत्र के पुत्र समान पीछे वर्तमान] और (पितामहः) दादा [पिता के पिता समान पहिले वर्तमान] है। (सः) वह (विश्वस्य) सबका (ईशानः) ईश्वर, (वृषा) महापराक्रमी [परमात्मा] (भूम्याम्) भूमि पर (अतिघ्न्यः) बिना हराया हुआ (क्षियति) बसता है ॥१६॥
भावार्थभाषाः - सर्वजनक, अनादि, अनन्त परमेश्वर सर्वविजयी है, उसकी उपासना सब मनुष्य करें ॥१६॥
टिप्पणी: १६−(पिता) जनकः (जनितुः) जनकस्य (उच्छिष्टः) म० १। परमात्मा (असोः) असु क्षेपणे-उन्। असुरिति प्राणनामास्तः शरीरे भवति-निरु० ३।८। प्राणस्य जीवनस्य (पौत्रः) पुत्रस्य पुत्रवत् पश्चाद्भावी (पितामहः) अ० ५।५।१। पितुः पितृसमानः प्रथमभवः (सः) (क्षियति) निवसति (विश्वस्य) सर्वस्य (ईशानः) ईश्वरः (वृषा) वृषु सेचने ऐश्वर्ये च-कनिन्। महापराक्रमी। इन्द्रः (भूम्याम्) पृथिव्याम् (अतिघ्न्यः) अघ्न्यादयश्च। उ० ४।११२। अति+हन हिंसागत्योः-यक्। अतिक्रान्तहननः। अहन्तव्यः। अजेयः ॥
