134 बार पढ़ा गया
चतूरा॒त्रः प॑ञ्चरा॒त्रः ष॑ड्रा॒त्रश्चो॒भयः॑ स॒ह। षो॑ड॒शी स॑प्तरा॒त्रश्चोच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॒ ये य॒ज्ञा अ॒मृते॑ हि॒ताः ॥
पद पाठ
चतु:ऽरात्र: । पञ्चऽरात्र: । षट्ऽरात्र: । च । उभय: । सह । षोडशी । सप्तऽरात्र: । च । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । ये । यज्ञा: । अमृते । हिता: ॥९.११॥
अथर्ववेद » काण्ड:11» सूक्त:7» पर्यायः:0» मन्त्र:11
पण्डित क्षेमकरणदास त्रिवेदी
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थान्वयभाषाः - (चतूरात्रः) चार रात्रि [तक रहने] वाला, (पञ्चरात्रः) पाँच रात्रिवाला, (षड्रात्रः) छह रात्रिवाला, (च) और (सह) मिलकर (उभयः) दूने समय [८+१०+१२=३० रात्रि] वाला। (षोडशी) सोलह [रात्रि] वाला (च) और (सप्तरात्रः) सात रात्रिवाला [यज्ञ वा व्यवहार] (उच्छिष्टात्) शेष [म० १। परमेश्वर] से (जज्ञिरे) उत्पन्न हुए हैं, [और वे भी] (ये) जो (सर्वे) सब (यज्ञाः) यज्ञ [श्रेष्ठ व्यवहार] (अमृते) अमरपन [पौरुष वा मोक्ष पद] में (हिताः) स्थापित हैं ॥११॥
भावार्थभाषाः - परमात्मा ने बताया है कि मनुष्य पहिले से ही चार दिन, पाँच दिन आदि काल का विचार करके मोक्षपर्यन्त अपना कर्तव्यव्यवहार साधे ॥११॥
टिप्पणी: ११−(चतूरात्रः) एकरात्र इति शब्दवत् सिद्धिः-म० १। चतस्रो रात्रीर्व्याप्य समाप्यमानः (पञ्चरात्रः) पञ्चभी रात्रिभिः समाप्यमानः (षड्रात्रः) षड्भी रात्रिभिः समाप्यमानः (च) (उभयः) द्विगुणितः (सह) साहाय्येन (षोडशी) षोडशरात्रः (सप्तरात्रः) सप्तभी रात्रिभिः समाप्यमानः (उच्छिष्टात्) (जज्ञिरे) उत्पन्ना बभूवुः (सर्वे) (ये) (यज्ञाः) (अमृते) नास्ति मरणं दुःखं यस्मिंस्तस्मिन् पौरुषे मोक्षे वा (हिताः) धृताः ॥
