वांछित मन्त्र चुनें

पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः। श॒कुन्ता॑न्प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

पार्थिवा: । दिव्या: । पशव: । आरण्या: । उत । ये । मृगा: । शकुन्तान् । पक्षिण: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.८॥

अथर्ववेद » काण्ड:11» सूक्त:6» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कष्ट हटाने के लिये उपदेश।

पदार्थान्वयभाषाः - (ये) जो (पार्थिवाः) पृथिवी के, (दिव्याः) आकाश के (पशवः) प्राणी (उत) और (आरण्याः) जंगल के (मृगाः) जन्तु हैं [उनको] और (शकुन्तान्) शक्तिवाले (पक्षिणः) पक्षियों को (ब्रूमः) हम पुकारते हैं, (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥८॥
भावार्थभाषाः - मनुष्य प्रयत्न करें कि पृथिवी, जङ्गल और आकाश के सब प्राणी सुखदायक होवें ॥८॥इस मन्त्र का मिलान-अथर्व० ११।५।२१। से करो ॥
टिप्पणी: ८−(पार्थिवाः) पृथिवीभवाः (दिव्याः) आकाशे भवाः (पशवः) प्राणिनः (आरण्याः) जङ्गलभवाः (उत) (ये) (मृगाः) जन्तवः (शकुन्तान्) शकेरुनोन्तोन्त्युनयः। उ० ३।४९। शक्लृ शक्तौ-उन्त प्रत्ययः। शक्तियुक्तान् (पक्षिणः) वयांसि। अन्यद् गतम्-म० १ ॥