वांछित मन्त्र चुनें

दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्। स॑मु॒द्रा न॒द्यो वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

दिवम् । ब्रूम: । नक्षत्राणि । भूमिम् । यक्षाणि । पर्वतान् । समुद्रा: । नद्य: । वेशन्ता: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१०॥

अथर्ववेद » काण्ड:11» सूक्त:6» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कष्ट हटाने के लिये उपदेश।

पदार्थान्वयभाषाः - (दिवम्) आकाश, (नक्षत्राणि) नक्षत्रों, (भूमिम्) भूमि, (यक्षाणि) पुण्य स्थानों, और (पर्वतान्) पर्वतों का (ब्रूमः) हम कथन करते हैं। (समुद्राः) सब समुद्र, (नद्यः) नदियाँ और (वेशन्ताः) सरोवर [जो हैं, उनका भी], (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१०॥
भावार्थभाषाः - मनुष्य आकाश, नक्षत्र, भूमि आदि पदार्थों के गुण कर्म जानकर और उनका यथावत् उपयोग करके आनन्दित रहें ॥१०॥
टिप्पणी: १०−(दिवम्) आकाशम् (ब्रूमः) (नक्षत्राणि) णक्ष गतौ-अत्रन्। तारागणान् (भूमिम्) (यक्षाणि) यक्ष पूजायाम्-घञ्। पूजास्थानानि। पुण्यक्षेत्राणि (पर्वतान्) शैलान् (समुद्राः) (नद्यः) सरितः (वेशन्ताः) जॄविशिभ्यां झच्। उ० ३।१२६। विश प्रवेशने झच्। अल्पजलाशयाः। अन्यत् पूर्ववत्-म० १ ॥