वांछित मन्त्र चुनें

ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑। ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥

मन्त्र उच्चारण
पद पाठ

ब्रह्मऽचारिणम् । पितर: । देवऽजना: । पृथक् । देवा: । अनुऽसंयन्ति । सर्वे । गन्धर्वा: । एनम् । अनु । आयन् । त्रय:ऽत्रिंशत् । त्रिऽशता: । षट्ऽसहस्रा: । सर्वान् । स: । देवान् । तपसा । पिपर्ति ॥७.२॥

अथर्ववेद » काण्ड:11» सूक्त:5» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मचर्य के महत्त्व का उपदेश।

पदार्थान्वयभाषाः - (सर्वे) सब (देवाः) व्यवहारकुशल, (पितरः) पालन करनेवाले, (देवजनाः) विजय चाहनेवाले पुरुष (पृथक्) नाना प्रकार से (ब्रह्मचारिणम्) ब्रह्मचारी [मन्त्र १] के (अनुसंयन्ति) पीछे-पीछे चलते हैं। (त्रयस्त्रिंशत्) तेंतीस, (त्रिशताः) तीन सौ और (षट्सहस्राः) छह सहस्र [६,३३३ अर्थात् बहुत से] (गन्धर्वाः) पृथिवी के धारण करनेवाले [पुरुषार्थी पुरुष] (एनम् अनु) इस [ब्रह्मचारी] के साथ-साथ (आयन्) चले हैं, (सः) वह (सर्वान्) सब (देवान्) विजय चाहनेवालों को (तपसा) [अपने] तप से (पिपर्ति) भरपूर करता है ॥२॥
भावार्थभाषाः - सब विद्वान् पुरुषार्थी जन पूर्वकाल से जितेन्द्रिय ब्रह्मचारी के अनुशासन में चलकर आनन्द पाते आये हैं और पाते हैं ॥२॥
टिप्पणी: २−(ब्रह्मचारिणम्) म० १। ब्रह्मचर्यं चरन्तं पुरुषम् (पितरः) पालकाः (देवजनाः) विजिगीषवः (पृथक्) नानाप्रकारेण (देवाः) व्यवहारकुशलाः (अनुसंयन्ति) अनुसृत्य गच्छन्ति (सर्वे) समस्ताः (गन्धर्वाः) अ० २।१।२। गो+धृञ् धारणपोषणयोः-व प्रत्ययः, गोशब्दस्य गमादेशः। गां पृथिवीं धरन्तीति ये ते (एनम्) ब्रह्मचारिणम् (अनु) अनुगत्य (आयन्) इण् गतौ-लङ्। अगच्छन् (त्रयस्त्रिंशत्) (त्रिशताः) त्रीणि शतानि येषु ते (षट्सहस्राः) षट्सहस्रसंख्याकाः। अपरिमिताः (सर्वान्) (सः) ब्रह्मचारी (देवान्) विजिगीषून् (तपसा) ब्रह्मचर्यरूपेण तपश्चरणेन (पिपर्ति) पूरयति ॥