अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे। तयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ॥
अर्वाक् । अन्य: । इत: । अन्य: । पृथिव्या: । अग्नी इति । सम्ऽएत: । नभसी इति । अन्तरा । इमे इति । तयो: । श्रयन्ते । रश्मय: । अधि । दृढा: । तान् । आ । तिष्ठति । तपसा । ब्रह्मऽचारी ॥७.११॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मचर्य के महत्त्व का उपदेश।
