वांछित मन्त्र चुनें

अ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन्। आयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ॥

मन्त्र उच्चारण
पद पाठ

अभिऽवृष्टा: । ओषधय: । प्राणेन । सम् । अवादिरन् । आयु: । वै । न: । प्र । अतीतर: । सर्वा: । न: । सुरभी: । अक: ॥६.६॥

अथर्ववेद » काण्ड:11» सूक्त:4» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

प्राण की महिमा का उपदेश।

पदार्थान्वयभाषाः - (अभिवृष्टाः) सींची हुई (ओषधयः) ओषधें [अन्न आदि] (प्राणेन) प्राण [जीवनदाता परमेश्वर] से (सम्) मिलकर (अवादिरन्) बोलीं−“(नः) हमारी (आयुः) आयु को (वै) निश्चय करके (प्र अतीतरः) तूने बढ़ाया है, (नः सर्वाः) हम सबको (सुरभीः) सुगन्धित (अकः) तूने बनाया है ॥६॥
भावार्थभाषाः - वृष्टि से सब अन्न वृक्ष आदि पदार्थ उत्पन्न और पुष्ट होकर संसार का उपकार करते हुए परमेश्वर को धन्यवाद देते हैं ॥६॥
टिप्पणी: ६−(अभिवृष्टाः) अभिषिक्ताः (ओषधयः) अन्नादिपदार्थाः (प्राणेन) म० १। जीवनप्रदेन परमेश्वरेण (सम्) मिलित्वा (अवादिरन्) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः। पा–० १।३।४७। आत्मनेपदम्। भाषणं कृतवत्यः (आयुः) जीवनम् (वै) अवश्यम् (नः) अस्माकम् (प्रातीतरः) त्वं वर्धितवानसि (सर्वाः) (नः) अस्मान् (सुरभीः) सु+रभ-राभस्ये-इन्। सुगन्धयुक्ताः (अकः) कृतवानसि ॥