वांछित मन्त्र चुनें
देवता: मन्त्रोक्ताः ऋषि: अथर्वा छन्द: N/A स्वर: ओदन सूक्त

तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॑प्रतिष्ठा॒नोनायत॒नो म॑रिष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॒त्ये प्र॑ति॒ष्ठाय॑। तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

मन्त्र उच्चारण
पद पाठ

तत: । च । एनम् । अन्यया । प्रतिऽस्थया । प्रऽआशी: । यया । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अप्रतिऽस्थान: । अनायतन: । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्ये । प्रतिऽस्थाय ॥ तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१८॥

अथर्ववेद » काण्ड:11» सूक्त:3» पर्यायः:0» मन्त्र:49


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - [हे जिज्ञासु !] (च) यदि (एनम्) इस [ओदन नाम परमेश्वर] को (ततः) उस [प्रतिष्ठा] से (अन्यया) भिन्न (प्रतिष्ठया) प्रतिष्ठा [कीर्ति] से (प्राशीः) तूने खाया [अनुभव किया] है, (याभ्याम्) जिन दोनों से (च) ही (एनम्) इस [परमेश्वर] को (पूर्वे) पहिले (ऋषयः) ऋषियों [वेदार्थ जाननेवालों] ने (प्राश्नन्) खाया [अनुभव किया] था। [तब] (अप्रतिष्ठानः) कीर्तिरहित और (अनायतनः) और विना घर होकर (मरिष्यसि) तू मरेगा−(इति) ऐसा (एनम्) इस [जिज्ञासु] से (आह) वह [आचार्य] कहे ॥[जिज्ञासु का उत्तर]−(अहम्) मैंने (वै) निश्चय करके (न) अब (तम्) उस (अर्वाञ्चम्) पीछे वर्तमान रहनेवाले, (न) अब (पराञ्चम्) दूर वर्तमान और (न) अब (प्रत्यञ्चम्) प्रत्यक्ष वर्तमान [परमेश्वर] को [खाया अर्थात् अनुभव किया है]। (सत्ये) सत्य [सत्यस्वरूप परमात्मा] में (प्रतिष्ठाय) प्रतिष्ठा [आदर] पाकर (तया) उसी [ऋषियों के समान प्रतिष्ठा] से (एनम्) इस [परमेश्वर] को (प्र आशिषम्) मैंने खाया [अनुभव किया] है, (ताभ्याम्) उन दोनों से (एनम्) इसको (अजीगमम्) मैंने पाया है ॥(एषः) यह (वै) ही (ओदनः) ओदन [सुखवर्षक अन्नसमान परमेश्वर] (सर्वाङ्गः) सब उपायोंवाला, (सर्वपरुः) सब पालनोंवाला और (सर्वतनूः) सब उपकारोंवाला है। वह [मनुष्य] (एव) ही (सर्वाङ्गः) सब उपायोंवाला, (सर्वपरुः) सब पालनोंवाला और (सर्वतनूः) सब उपकारोंवाला (सम् भवति) हो जाता है, (यः) जो [मनुष्य] (एवम्) ऐसा (वेद) जानता है ॥४९॥
भावार्थभाषाः - मन्त्र ३२ के समान ॥४९॥
टिप्पणी: ४९−(ततः) तया (प्रतिष्ठया) कीर्त्या। गौरवेण (अप्रतिष्ठानः) कीर्तिरहितः (अनायतनः) यती प्रयत्ने-आधारे ल्युट्। गृहरहितः (मरिष्यसि) (सत्ये) अविनाशिस्वरूपे परमात्मनि (प्रतिष्ठाय) प्रतिष्ठितः सगौरवो भूत्वा। अन्यत् पूर्ववत् ॥