वांछित मन्त्र चुनें
देवता: मन्त्रोक्ताः ऋषि: अथर्वा छन्द: N/A स्वर: ओदन सूक्त

तत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॒न्धो भ॑विष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। सू॑र्याचन्द्रम॒साभ्या॑म॒क्षीभ्या॑म्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

मन्त्र उच्चारण
पद पाठ

तत: । च । एनम् । अन्याभ्याम् । अक्षीभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अन्ध: । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सूर्याचन्द्रमसाभ्याम् । अक्षीभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.३॥

अथर्ववेद » काण्ड:11» सूक्त:3» पर्यायः:0» मन्त्र:34


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - [हे जिज्ञासु !] (च) यदि (एनम्) इस [ओदन नाम परमेश्वर] को (ततः) उन [नेत्रों] से (अन्याभ्याम्) भिन्न (अक्षीभ्याम्) दो नेत्रों से (प्राशीः) तूने खाया [अनुभव किया] है, (याभ्याम्) जिन दोनों से (च) ही (एतम्) इस [परमेश्वर] को (पूर्वे) पहिले (ऋषयः) ऋषियों [वेदार्थ जाननेवालों] ने (प्राश्नन्) खाया [अनुभव किया] था। तू (अन्धः) अन्धा (भविष्यसि) हो जावेगा−(इति) ऐसा (एनम्) इस [जिज्ञासु] से (आह) वह [आचार्य] कहे ॥[जिज्ञासु का उत्तर]−(अहम्) मैंने (वै) निश्चय करके (न) अब (तम्) उस (अर्वाञ्चम्) पीछे वर्तमान रहनेवाले, (न) अब (पराञ्चम्) दूर वर्तमान और (न) अब (प्रत्यञ्चम्) प्रत्यक्ष वर्तमान [परमेश्वर] को [खाया अर्थात् अनुभव किया है]। (ताभ्याम्) उन दोनों (सूर्याचन्द्रमसाभ्याम्) सूर्य और चन्द्रमा रूप [उन के समान नियम में चलकर] (अक्षीभ्याम्) दो नेत्रों से (एनम्) इस [परमेश्वर] को (प्र आशिषम्) मैंने खाया [अनुभव किया] है, (ताभ्याम्) उन दोनों से (एनम्) इसको (अजीगमम्) मैंने पाया है ॥(एषः वै) यह ही... म० ३२ ॥३४॥
भावार्थभाषाः - मन्त्र ३२ के समान ॥३४॥
टिप्पणी: ३४−(ततः) ताभ्याम् (अक्षीभ्याम्) अ० २।३३।१। नेत्राभ्याम् (अन्धः) अन्ध दृष्टिनाशे-अच्। दृष्टिशक्तिरहितः (सूर्याचन्द्रमसाभ्याम्) अच् प्रत्यन्ववपूर्वात्सामलोम्नः। पा० ५।४।७५। अजिति योगविभागात्-अच् प्रत्ययः। सूर्यचन्द्ररूपाभ्याम्। अन्यत् पूर्ववत्-म० ३२ ॥