वांछित मन्त्र चुनें

रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑। इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥

मन्त्र उच्चारण
पद पाठ

रुद्रस्य । ऐलबऽकारेभ्य: । असंसूक्तऽगिलेभ्य: । इदम् । महाऽआस्येभ्य: । श्वऽभ्य: । अकरम् । नम: ॥२.३०॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:30


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (ऐलवकारेभ्यः) लगातार भों-भों ध्वनि करनेवाले (असंसूक्तगिलेभ्यः) अमङ्गल शब्द बोलनेवाले, (महास्येभ्यः) बड़े-बड़े मुँहवाले (श्वभ्यः) कुत्तों के रोकने के लिये (रुदस्य) रुद्र [दुःखनाशक परमेश्वर] को (इदम्) यह (नमः) नमस्कार (अकरम्) मैंने किया है ॥३०॥
भावार्थभाषाः - मनुष्य प्रयत्न करें कि चोर आदि दुर्जन इधर-उधर न घूमें, जिनके न होने से चौकसी के कुत्ते भयानक शब्द न करें ॥३०॥
टिप्पणी: ३०−(रुद्रस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। रुद्राय। दुःखनाशकाय (ऐलवकारेभ्यः) आङ्+इल स्वप्नक्षेपणयोः-घञ्+वण, वण शब्दे-ड+करोतेः-अण्। आक्षेपध्वनिकारकेभ्यः (असंसूक्तगिलेभ्यः) जलिकल्यनिमहि०। उ० १।५४। अ+सम्+सूक्त+गॄ शब्दे-इलच्। असंसूक्तस्य अशुभवचनस्य भाषणशीलेभ्यः (इदम्) (महास्येभ्यः) विशालमुखेभ्यः (श्वभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शुनः कुक्कुरान् निवारयितुम् (अकरम्) करोतेर्लुङ्। कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। च्लेरङ्। अहं कृतवानस्मि ॥