यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥
पद पाठ
यस्य । तक्मा । कासिका । हेति: । एकम् । अश्वस्यऽइव । वृषण: । क्रन्द: । एति । अभिऽपूर्वम् । नि:ऽनयते । नम: । अस्तु । अस्मै ॥२.२२।
अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:22
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थान्वयभाषाः - (यस्य) जिस [रुद्र] का (हेतिः) वज्र (तक्मा) तुच्छ जीवन करनेवाला [ज्वर] और (कासिका) खाँसी (एकम्) एक [उपद्रवी] को (एति) प्राप्त होती है, (इव) जैसे (वृषणः) बलवान् (अश्वस्य) घोड़े के (क्रन्दः) हिनहिनाने का शब्द। (अभिपूर्वम्) एक-एक को यथाक्रम (निर्णयते) निर्णय करनेवाले (अस्मै) इस [रुद्र] को (नमः) नमस्कार (अस्तु) होवे ॥२२॥
भावार्थभाषाः - प्रत्येक उपद्रवी मनुष्य परमेश्वर के नियम से ज्वर आदि अनेक पीड़ाएँ प्राप्त करता है ॥२२॥
टिप्पणी: २२−(यस्य) रुद्रस्य (तक्मा) अ० १।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकरो ज्वरः (कासिका) कासृ शब्दकुत्सायाम्-घञ्, स्वार्थे कन्, अत इत्वम्। कुत्सितशब्दकारी रोगविशेषः। कासः (हेतिः) वज्रः (एकम्) अपकारिणम् (अश्वस्य) (इव) यथा (वृषणः) बलवतः (क्रन्दः) हेषा शब्दः (एति) प्राप्नोति (अभिपूर्वम्) पूर्वं पूर्वमभिलक्ष्य। यथाक्रमम् (निर्णयते) निः+णीञ् प्रापणे-शतृ। निर्णयं निश्चयं कुर्वते। अन्यद् गतम् ॥
