वांछित मन्त्र चुनें

मा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते। अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥

मन्त्र उच्चारण
पद पाठ

मा । न: । अभि । स्रा: । मत्यम् । देवऽहेतिम् । मा । न: । क्रुध: । पशुऽपते । नम: । ते । अन्यत्र । अस्मत् । दिव्याम् । शाखाम् । व‍ि । धूनु ॥२.१९॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:19


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (पशुपते) हे दृष्टिवाले [जीवों] के रक्षक ! (नः) हमारे लिये (देवहेतिम्) दिव्य [अद्भुत] वज्र, (मत्यम्) अपनी मुट्ठी [घूँसा] को (मा अभि स्राः) ताककर मत छोड़, (नः) हम पर (मा क्रुधः) मत क्रोध कर, (ते) तुझे (नमः) नमस्कार है। (अस्मत्) हमसे (अन्यत्र) दूसरों [दुष्टों] पर (दिव्याम्) दिव्य (शाखाम्) भुजा को (वि धूनु) हिला ॥१९॥
भावार्थभाषाः - हम सदा धर्म में प्रवृत्त रहकर परमेश्वर की आज्ञा का पालन करें, जिस से वह हम पर क्रोध न करे और न भय दिखावे ॥१९॥
टिप्पणी: १९−(नः) अस्मभ्यम् (अभि) अभितः (मा स्राः) सृज विसर्गे माङि लुङि रूपम्। सृजिदृशोर्झल्यमकिति। पा० ६।१।५९। अमागमः, वृद्धौ। झलो झलि। पा० ८।२।२६। सिचो लोपः। बहुलं छन्दसि। पा० ७।३।९७। ईडभावः। हल्ङ्याब्भ्यो दीर्घात्०। पा० ६।१।६८। सिलोपः, जलोपश्छान्दसः। मा स्राक्षीः। मा त्यज (मत्यम्) अ० ८।८।११। मतजनहलात् करण०। पा० ४।४।९७। मत-यत्। मतं ज्ञानं तस्य करणमिति। मुष्टिम् (देवहेतिम्) अद्भुतवज्रम् (नः) अस्मभ्यम् (मा क्रुधः) क्रुध कोपे माङि लुङि-पुषादित्वात् च्लेः अङ् आदेशः। क्रोधं मा कुरु (पशुपते) हे दृष्टिमतां जीवानां पालक (नमः) (ते) तुभ्यम्। (अन्यत्र) अन्येषु शत्रुषु (अस्मत्) अस्मत्तः (दिव्याम्) अद्भुताम् (शाखाम्) शाखृ व्याप्तौ-अच्, टाप्। बाहुम्-यथा शब्दकल्पद्रुमकोषे (वि) विविधम् (धूनु) कम्पय ॥