वांछित मन्त्र चुनें
131 बार पढ़ा गया

उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः। स नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यः ॥

मन्त्र उच्चारण
पद पाठ

उरु: । कोश: । वसुऽधान: । तव । अयम् । यस्मिन् । इमा । विश्वा । भुवनानि । अन्त: । स: । न: । मृड । पशुऽपते । नम: । ते । पर: । क्रोष्टार: । अभिऽभा: । श्वान: । पर: । यन्तु । अघऽरुद: । विऽकेश्य: ॥२.११॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:11


पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - [परमेश्वर !] (तव) तेरा (अयम्) यह (उरुः) चौड़ा (कोशः) कोश [निधि] (वसुधानः) श्रेष्ठ पदार्थों का आधार है, (यस्मिन् अन्तः) जिसके भीतर (इमा विश्वा) ये सब (भुवनानि) भुवन [सत्ताएँ] हैं। (पशुपते) हे दृष्टिवाले [जीवों] के रक्षक ! (सः) तू सो (नः) हमें (मृड) सुखी रख, (ते) तेरे लिये (नमः) नमस्कार हो, (क्रोष्टारः) चिल्लानेवाले गीदड़, (अभिभाः) सन्मुख चमकती हुई विपत्तियाँ, (श्वानः) घूमनेवाले कुत्ते (परः) दूर और (विकेश्यः) केश फैलाये हुए [भयानक] (अघरुदः) पाप की पीड़ाएँ (परः) दूर (यन्तु) चली जावें ॥११॥
भावार्थभाषाः - परमेश्वर के आश्रय भण्डार से यह सब लोक पलते हैं, उसी के आश्रय से सब मनुष्य पुरुषार्थ के साथ अनेक विपत्तियों और विघ्नों से बचकर आनन्दित होवें ॥११॥
टिप्पणी: ११−(उरुः) विस्तृतः (कोशः) निधिः। भाण्डागारः (वसुधानः) वसूनां श्रेष्ठपदार्थानामाधारः (तव) (अयम्) (यस्मिन्) कोशे (इमा) इमानि (विश्वा) सर्वाणि (भुवनानि) अस्तित्वानि। लोकाः (अन्तः) मध्ये (सः) स त्वम् (नः) अस्मान् (मृड) मृडय। सुखय (पशुपते) दृष्टिमतां जीवानां पालक (नमः) नमस्कारः (ते) तुभ्यम् (परः) परस्तात्। दूरम् (क्रोष्टारः) क्रोशनशीलाः शृगालाः (अभिभाः) अ० १।˜२०।१। अभि+भा दीप्तौ-क्विप्। अभितो दीप्यमाना विपत्तयः (श्वानः) अ० ४।३६।६। टुओश्वि गतिवृद्ध्योः-कनिन्। भ्रमणशीलाः कुक्कुराः (परः) दूरम् (यन्तु) गच्छन्तु (अघरुदः) अ० ८।—१।११। अघ+रुदेः क्विप्। पापस्य पीडाः (विकेश्यः) अ० १।२८।४। वि+केश- ङीप्। विकीर्णकेशाः। अतिभयकारिण्यः ॥