वांछित मन्त्र चुनें

तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्वन्तरि॑क्षम्। तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥

मन्त्र उच्चारण
पद पाठ

तव । चतस्र: । प्रऽदिश: । तव । द्यौ: । पृथिवी । तव । इदम् । उग्र । उरु । अन्तरिक्षम् । तव । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । पृथिवीम् । अनु ॥२.१०॥

अथर्ववेद » काण्ड:11» सूक्त:2» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (उग्र) हे तेजस्वी ! [परमेश्वर] (तव) तेरी (चतस्रः) चारों (प्रदिशः) बड़ी दिशाएँ हैं, (तव) तेरा (द्यौः) प्रकाशमान सूर्य, (तव) तेरी (पृथिवी) फैली हुई भूमि, (तव) तेरा (इदम्) यह (उरु) चौड़ा (अन्तरिक्षम्) आकाश लोक है। (तव) तेरा ही (इदम्) यह (सर्वम्) सब है, (यत्) जो (आत्मन्वत्) आत्मावाला और (प्राणत्) प्राणवाला [जगत्] (पृथिवीम् अनु) पृथिवी पर है ॥१०॥
भावार्थभाषाः - यह सब चराचर जगत् और पृथिवी आदि सब लोक परमेश्वर के आधीन हैं ॥१०॥
टिप्पणी: १०−(तव) (चतस्रः) चतुःसंख्याकाः (प्रदिशः) प्रधानाः प्राच्याद्या महादिशः (द्यौः) प्रकाशमानः सूर्यः (पृथिवी) विस्तृता भूमिः (इदम्) सर्वत्र व्यापकम् (उग्र) हे तेजस्विन् (उरु) विस्तृतम् (अन्तरिक्षम्) सर्वमध्ये दृश्यमान आकाशः (इदम्) सर्वम् (आत्मन्वत्) अ० ४।१०।७। सात्मकं जगत् (यत्) (प्राणत्) प्राणव्यापारं कुर्वत् (पृथिवीम् अनु) भूमिं प्रति ॥