यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
पद पाठ
याम् । देवा: । अनुऽतिष्ठन्ति । यस्या: । न । अस्ति । विऽराधनम् । तया । इन्द्र: । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥१२.२७॥
अथर्ववेद » काण्ड:11» सूक्त:10» पर्यायः:0» मन्त्र:27
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस [आहुति-म० २६] को (देवाः) विजय चाहनेवाले पुरुष (अनुतिष्ठन्ति) अनुष्ठान करते हैं, (यस्याः) जिस [आहुति] की (विराधनम्) निष्फलता (न अस्ति) नहीं है। (तया) उस [आहुति] से (वृत्रहा) अन्धकारनाशक (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला] पुरुष (त्रिषन्धिना) त्रिसन्धि [म० २। त्रयीकुशल सेनापति] के साथ (वज्रेण) वज्रद्वारा [शत्रुओं को] (हन्तु) मारे ॥२७॥
भावार्थभाषाः - जैसे अचूक नीति और प्रतिज्ञारूप आहुति को शूरवीर पुरुष परोपकार में दान करते हैं, उसी प्रकार सब मनुष्य कर्म, उपासना और ज्ञान में कुशल और पुरुषार्थी जन के सहाय से विघ्नों का नाश करें ॥२७॥ इति पञ्चमोऽनुवाकः ॥इति पञ्चविंशः प्रपाठकः ॥इत्येकादशं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये एकादशं काण्डं समाप्तम् ॥
टिप्पणी: २७−(याम्) आहुतिम् (देवाः) विजिगीषवः (अनुतिष्ठन्ति) आचरन्ति (यस्याः) (न) (अस्ति) (विराधनम्) निष्फलता। असिद्धिः (तया) आहुत्या (इन्द्रः) परमैश्वर्यवान् पुरुषः (हन्तु) मारयतु (वृत्रहा) अन्धकारनाशकः (वज्रेण) वज्रद्वारा (त्रिषन्धिना) म० २। त्रयीकुशलेन सेनापतिना सह ॥
