वांछित मन्त्र चुनें

ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥

मन्त्र उच्चारण
पद पाठ

ये । वर्मिण: । ये । अवर्माण: । अमित्रा: । ये । च । वर्मिण: । सर्वान् । तान् । अर्बुदे । हतान् । श्वान: । अदन्तु । भूम्याम् ॥१२.२३॥

अथर्ववेद » काण्ड:11» सूक्त:10» पर्यायः:0» मन्त्र:23


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (अमित्राः) शत्रु लोग (वर्मिणः) वर्म [कवच विशेष] वाले हैं, (ये) जो (अवर्माणः) विना कर्मवाले हैं, (च) और (ये) जो (वर्मिणः) झिलमवाले हैं। (अर्बुदे) हे अर्बुदि [शूर सेनापति] (तान् सर्वान्) उन सब (हतान्) मारे गयों को (श्वानः) कुत्ते (भूम्याम्) रणभूमि पर (अदन्तु) खावें ॥२३॥
भावार्थभाषाः - शूर सेनापति से मारे गये सब शत्रुओं की लोथों को कुत्ते आदि खावें ॥२३॥
टिप्पणी: २३−(ये) (वर्मिणः) शस्त्रवारककवचविशेषेण युक्ताः (ये) (अवर्माणः) वर्मरहिताः (अमित्राः) शत्रवः (ये) (वर्मिणः) कवचवर्मव्यतिरिक्तेण शस्त्रनिवारकेण तनुत्राणेन युक्ताः (सर्वान्) (तान्) (अर्बुदे) अ० ११।९।१। हे शूरसेनापते (हतान्) मारितान् (श्वानाः) कुक्कुराः (अदन्तु) भक्षयन्तु (भूम्याम्) रणभूमौ ॥