वांछित मन्त्र चुनें

उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥

मन्त्र उच्चारण
पद पाठ

उत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआरा: । केतुऽभि: । सह । सर्पा: । इतरऽजना: । रक्षांसि । अमित्रान् । अनु । धावत ॥१२.१॥

अथर्ववेद » काण्ड:11» सूक्त:10» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (उदाराः) हे उदार पुरुषो ! [बड़े अनुभवी लोगो] (उत् तिष्ठत) उठो और (केतुभिः सह) झण्डों के साथ (संनह्यध्वम्) कवचों को पहिनों [जो] (सर्पाः) सर्प [सर्पों के समान] हिंसक (इतरजनाः) पामर जन (रक्षांसि) राक्षस हैं, (अमित्रान् अनु) [उन] शत्रुओं पर (धावत) धावा करो ॥१॥
भावार्थभाषाः - महानुभवी शूर वीर पुरुष कवच आदि पहिनकर और ध्वजा पताका अस्त्र-शस्त्र लेकर शत्रुओं पर चढ़ें ॥१॥
टिप्पणी: १−(उत् तिष्ठत) उद्गच्छत (संनह्यध्वम्) सन्नाहान् धरत (उदाराः) महान्तः। महानुभविनः (केतुभिः) ध्वजैः (सह) (सर्पाः) सर्पतुल्यहिंसकाः (इतरजनाः) पामरपुरुषाः (रक्षांसि) राक्षसाः (अमित्रान्) शत्रून् (अनु) प्रति (धावत) शीघ्रं गच्छत ॥