वांछित मन्त्र चुनें

त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्। अंशा॑ञ्जानीध्वं॒ वि भ॑जामि॒ तान्वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ॥

मन्त्र उच्चारण
पद पाठ

त्रेधा । भाग: । निऽहित: । य: । पुरा । व: । देवानाम् । पितॄणाम् । मर्त्यानाम् । अंशान् । जानीध्वम् । वि । भजामि । तान् । व: । य: । देवानाम् । स: । इमाम् । पारयाति ॥१.५॥

अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्यो !] (त्रेधा) तीन प्रकार से, (देवानाम्) देवताओं [विजयी जनों] का, (पितॄणाम्) पितरों [पालक पुरुषों] का और (मर्त्यानाम्) मर्त्यों [मरणधर्मियों] का, (यः) जो (वः) तुम्हारे लिये (भागः) भाग (पुरा) पहिले से (निहितः) ठहराया हुआ है। (जानीध्वम्) तुम जानो कि (तान् अंशान्) उन भागों को (वः) तुम्हारे लिये (वि भजामि) मैं [परमेश्वर] बाँटता हूँ, (यः) जो [भाग] (देवानाम्) देवताओं का है, (सः) वह (इमाम्) इस [प्रजा-म० १] को (पारयाति) पार लगावे ॥५॥
भावार्थभाषाः - ईश्वरनियम से अनादि काल से कर्मानुसार मनुष्य तीन प्रकार के हैं−एक उत्तम देवसंज्ञक दूसरे मध्यम पितृसंज्ञक और तीसरे निकृष्ट मर्त्यसंज्ञक। देवसंज्ञक श्रेष्ठ पुरुष ही अपनी प्रजा को यथावत् सुख पहुँचाने में समर्थ होते हैं ॥५॥
टिप्पणी: ५−(त्रेधा) एधाच्च। पा–० ५।३।४६। त्रि-एधाच्। त्रिप्रकारेण (भागः) अंशः (निहितः) स्थापितः (यः) (पुरा) पूर्वकाले। सृष्ट्यादौ (वः) युष्मभ्यम् (देवानाम्) विजयिनाम्। श्रेष्ठपुरुषाणाम् (पितॄणाम्) पालकानां मध्यमजनानाम् (मर्त्यानाम्) मरणधर्मणां निकृष्टजनानाम् (अंशान्) भागान् (जानीध्वम्) अवगच्छत (विभजामि) वण्टयामि परमेश्वरोऽहम् (तान्) (वः) युष्मभ्यम् (यः) भागः (देवानाम्) श्रेष्ठजनानाम् (सः) (इमाम्) प्रजाम्-म० १ (पारयाति) पार कर्मसमाप्तौ-लट्। पारयेत्। पारं नयेत् ॥