य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥
यज्ञम् । दुहानम् । सदम् । इत् । प्रऽपीनम् । पुमांसम् । धेनुम् । सदनम् । रयीणाम् । प्रजाऽअमृतत्वम् । उत । दीर्घम् । आयु: । राय: । च । पोषै: । उप । त्वा । सदेम ॥१.३४॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
