श्राम्य॑तः॒ पच॑तो विद्धि सुन्व॒तः पन्थां॑ स्व॒र्गमधि॑ रोहयैनम्। येन॒ रोहा॒त्पर॑मा॒पद्य॒ यद्वय॑ उत्त॒मं नाकं॑ पर॒मं व्योम ॥
पद पाठ
श्राम्यत: । पचत: । विध्दि । सुन्वत: । पन्थाम् । स्व:ऽगम् । अधि । रोहय । एनम् । येन । रोहात् । परम् । आऽपद्य । यत् । वय: । उत्ऽतमम् । नाकम् । परमम् । विऽओम ॥१.३०॥
अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:30
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थान्वयभाषाः - [हे ईश्वर !] (श्राम्यतः) श्रमी [ब्रह्मचारी आदि तपस्वी] का, (पचतः) पक्का करनेवाले [दृढ़ निश्चय करनेवाले], (सुन्वतः) तत्त्व निचोड़नेवाले [विज्ञानी पुरुष] का (विद्धि) तू ज्ञान कर और (स्वर्गम्) सुख पहुँचानेवाले (पन्थाम्) मार्ग में (एनम्) इस [जीव] को (अधि) ऊपर (रोहय) चढ़ा, (येन) जिस [मार्ग] से वह [जीव] (यत्) जो (परम्) बड़ा उच्च (वयः) जीवन है, [उसको] (आपद्य) पाकर (उत्तमम्) उत्तम (नाकम्) सुखस्वरूप (परमम्) सर्वोत्कृष्ट (व्योम) विविध रक्षक [परब्रह्म ओ३म्] को (रोहात्) ऊँचा होकर पावे ॥३०॥
भावार्थभाषाः - जो मनुष्य तपस्वी, दृढ़विश्वासी और विवेकी होकर अपना जीवन सुधारते हैं, वे ही सर्वरक्षक, [ओ३म्] परमात्मा को पाते अर्थात् उसकी आज्ञा पालकर संसार का सुधार करते हैं ॥३०॥
टिप्पणी: ३०−(श्राम्यतः) श्रमु तपसि खेदे च-शतृ। शमामष्टानां दीर्घः श्यनि। पा० ७।३।७४। इति दीर्घः। तप्यमानस्य ब्रह्मचारिणः (पचतः) डुपचष् पाके-शतृ। परिपक्वस्य। दृढनिश्चयस्य (विद्धि) ज्ञानं कुरु (सुन्वतः) षुञ् पीडने-शतृ। तत्त्वस्य पीडनं मन्थनं कुर्वतः पुरुषस्य (पन्थाम्) मार्गम् (स्वर्गम्) सुखप्रापकम् (अधि) उपरि (रोहय) आरोहय, स्थापय (एनम्) जीवम् (येन) पथा (रोहात्) रोहेत्। अधितिष्ठेत् (परम्) उच्चम् (आपद्य) प्राप्य (यत्) (वयः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, यद्वा वय गतौ-असुन्। वयः=अन्नम्-निघ० २।७। जीवनम् (उत्तमम्) (नाकम्) सुखस्वरूपम् (परमम्) सर्वोत्कृष्टम् (व्योम) वि+अव-मनिन्। व्योमन्-व्यवने-निरु० ११।४०। विविधं रक्षकम्, ओ३म्, इति संज्ञकं परब्रह्म ॥
