कृ॑णु॒त धू॒मं वृ॑षणः सखा॒योऽद्रो॑घाविता॒ वाच॒मच्छ॑। अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न् ॥
पद पाठ
कृणुत । धूमम् । वृषण: । सखाय: । अद्रोघऽअविता । वाचम् । अच्छ । अयम् । अग्नि: । पृतनाषाट् । सुऽवीर: । येन । देवा: । असहन्त । दस्युन् ॥१.२॥
अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थान्वयभाषाः - (वृषणः) हे ऐश्वर्यवाले (सखायः) सखाओ ! (धूमम्) कम्पन [चेष्टा] (कृणुत) करो, (वाचम् अच्छ) [अपने] वचन का लक्ष्य करके (अद्रोघाविता) निद्रोहियों [शुभाचार्यों] का रक्षक (पृतनाषाट्) संग्रामों का जीतनेवाला, (सुवीरः) उत्तम वीरोंवाला (अयम्) यह (अग्निः) तेजस्वी वीर है, (येन) जिस [वीर] के साथ (देवाः) देवों [विजयी जनों] ने (दस्यून्) डाकुओं को (असहन्त) जीता है ॥२॥
भावार्थभाषाः - सब मनुष्य मित्रभाव से रहकर सुपरीक्षित शूरवीर विद्वान् पुरुष को सेनापति बनाकर शत्रुओं का नाश करें ॥२॥यह मन्त्र कुछ भेद से ऋग्वेद में है-म० ३। सू० २९। म० ९ ॥
टिप्पणी: २−(कृणुत) कुरुत (धूमम्) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। कम्पनं चेष्टनम्। (वृषणः) अ० १।१२।१। वृषु सेचने प्रजनैश्ययोः-कनिन्। वा षपूर्वस्य निगमे। पा० ६।४।९। दीर्घाभावः। वृषाणः। ऐश्वर्यवन्तः। इन्द्राः (सखायः) सर्वमित्रभूताः (अद्रोघाविता) अद्रोहकारिणां सुचरित्राणामविता रक्षिता (वाचम्) वचनम् (अच्छ) अभिलक्ष्य (अयम्) (अग्निः) तेजस्वी विद्वान् (पृतनाषाट्) अ० ५।१४।८। संग्रामजेता (सुवीरः) नञ्सुभ्याम्। पा० ६।२।११२। इत्युत्तरपदेऽन्तोदात्ते प्राप्ते। वीरवीर्यौ च। पा० ६।२।१२०। उत्तरपदाद्युदात्तः। शोभनवीरोपेतः (येन) शूरेण (देवाः) विजयिनः (असहन्त) अभ्यभवन् (दस्यून्) चौरान्। महासाहसिकान् ॥
