उ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के। पि॑ताम॒हाः पि॒तरः॑ प्र॒जोप॒जाऽहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ॥
पद पाठ
उरु: । प्रथस्व । महता । महिम्ना । सहस्रऽपृष्ठ: । सुऽकृतस्य । लोके । पितामहा: । पितर: । प्रऽजा । उपऽजा । अहम् । पक्ता । पञ्चऽदश: । ते । अस्मि ॥१.१९॥
अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:19
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थान्वयभाषाः - [हे परमात्मन् !] (महता) बड़ी (महिम्ना) महिमा से (उरुः) विस्तृत और (सहस्रपृष्ठः) सहस्रों स्तोत्रवाला तू (सुकृतस्य) सुकर्म के (लोके) समाज में (प्रथस्व) प्रसिद्ध हो। (पितामहाः) पितामह [पिता के पिता] आदि, (पितरः) पिता आदि [सब गुरुजन], (प्रजा) सन्तान, और (उपजा) सन्तान के सन्तान [ये हैं] (पञ्चदशः) [पाँच प्राण, अर्थात् प्राण, अपान, व्यान, समान और उदान+पाँच इन्द्रिय अर्थात् श्रोत्र, त्वचा, नेत्र, रसना और घ्राण+पाँच भूत अर्थात् भूमि, जल, अग्नि, वायु, और आकाश इन] पन्द्रह पदार्थवाला जीवात्मा (अहम्) मैं (ते) तेरा (पक्ता) पक्का [अपने हृदय में दृढ़] करनेवाला (अस्मि) हूँ ॥१९॥
भावार्थभाषाः - मनुष्य को योग्य है कि परमेश्वर की आज्ञा पालन करके संसार में अपने बड़ों और छोटों के साथ सुकर्मी होकर आनन्द भोगें ॥१९॥
टिप्पणी: १९−(उरुः) विस्तीर्णः (प्रथस्व) प्रख्यातो भव (महता) अधिकेन (महिम्ना) महत्त्वेन (सहस्रपृष्ठः) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। पृषु सेचने-थक्। पृष्ठं शरीरस्य पश्चाद्भागः स्तोत्रं वा। सहस्राणि स्तोत्राणि यस्य सः परमेश्वरः (सुकृतस्य) सुकर्मणः (लोके) समाजे (पितामहाः) अ० ५।५।१। पितुः पितृतल्याः पितामहादयः (पितरः) पितृसदृशा माननीयाः (प्रजा) सन्तानः (उपजा) सन्तानस्य सन्तानः (अहम्) प्राणी (पक्ता) मनसि दृढकर्ता (पञ्चदशः) अ० ८।९।१५। संख्याऽव्ययासन्नादूराधिकसंख्याः संख्येये। पा० २।२।२५। इति पञ्चाधिका दश यत्र स पञ्चदशः। बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। पञ्चदशन्-डच्। पञ्चप्राणेन्द्रियभूतानि यस्मिन् स जीवात्मा (ते) तव (अस्मि) ॥
