वांछित मन्त्र चुनें

ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॒ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे। अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम् ॥

मन्त्र उच्चारण
पद पाठ

ब्रह्मणा । शुध्दा: । उत । पूता: । घृतेन । सोमस्य । अंशव: । तण्डुला: । यज्ञिया: । इमे । अप: । प्र । विशत । प्रति । गृह्णातु । व: । चरु: । इमम् । पक्त्वा । सुऽकृताम् । एते । लोकम् ॥१.१८॥

अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:18


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (ब्रह्मणा) वेद द्वारा (शुद्धाः) शुद्ध किये गये (उत) और (घृतेन) ज्ञानप्रकाश से (पूताः) पवित्र किये हुए, (सोमस्य) ऐश्वर्य के (अंशवः) बाँटनेवाले (यज्ञियाः) पूजनीय, (तण्डुलाः) दुःखभञ्जक (इमे) यह तुम (अपः) प्रजाओं में (प्र विशत्) प्रवेश करो, (चरुः) ज्ञान (वः) तुमको (प्रतिगृह्णातु) ग्रहण करे, (इमम्) इस [ज्ञान] को (पक्त्वा) पक्का करके (सुकृताम्) सुकर्मियों के (लोकम्) समाज को (एत) जाओ ॥१८॥
भावार्थभाषाः - जो मनुष्य वैदिक ज्ञान से शुद्ध आचरणवाले होकर संसार में प्रवेश करते हैं, वे पुण्यात्माओं के साथ आनन्द पाते हैं ॥१८॥
टिप्पणी: १८−(ब्रह्मणा) ब्रह्मज्ञानेन (शुद्धाः) शोधिताः (उत) अपि च (पूताः) पवित्राः (घृतेन) ज्ञानप्रकाशेन (सोमस्य) ऐश्वर्यस्य (अंशवः) अंश विभाजने-कु। विभाजकाः (तण्डुलाः) अ० १०।६।२६। तडि आघाते-उलच्। दुःखभञ्जकाः (यज्ञियाः) पूजार्हाः (इमे) समीपस्थाः (अपः) आपः, आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७। प्रजागणान् (प्र विशत्) (प्रतिगृह्णातु) स्वीकरोतु (चरुः) म० १६। बोधः (इमम्) बोधम् (पक्त्वा) पक्वं दृढं कृत्वा (सुकृताम्) सुकर्मिणाम् (एत) तप्तनप्तनथनाश्च। पा० ७।१।४५। इण् गतौ तस्य स्थाने तप्। इत। गच्छत (लोकम्) समाजम् ॥