वांछित मन्त्र चुनें

अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्। आ॑र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमिमं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ॥

मन्त्र उच्चारण
पद पाठ

अग्ने । चरु: । यज्ञिय: । त्वा । अधि । अरुक्षत् । शुचि: । तपिष्ठ: । तपसा । तप । एनम् । आर्षेया: । दैवा: । अभिऽसंगत्य । भागम् । इमम् । तपिष्ठा: । ऋतुऽभि: । तपन्तु ॥१.१६॥

अथर्ववेद » काण्ड:11» सूक्त:1» पर्यायः:0» मन्त्र:16


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से उन्नति का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् ! (यज्ञियः) पूजायोग्य (चरुः) ज्ञान ने (त्वा) तुझे (अधि अरुक्षत्) ऊँचा चढ़ाया है, (शुचिः) शुद्ध आचरणवाला, (तपिष्ठः) अतिशय तपवाला तू (तपसा) [ब्रह्मचर्य आदि] तप से (एनम्) इस [ज्ञान] को (तप) तपा [उपकार में ला]। (आर्षेयाः) ऋषियों में विख्यात, (दैवाः) उत्तम गुणवाले (तपिष्ठाः) बड़े तपस्वी लोग (अभिसंगत्य) सर्वथा मिलकर (इमम्) इस (भागम्) सेवनीय [ज्ञान] को (ऋतुभिः) ऋतुओं के साथ (तपन्तु) तपावें [उपकार में लावें] ॥१६॥
भावार्थभाषाः - जैसे विद्वान् ब्रह्मचर्य, जितेन्द्रियता आदि तपश्चरण से प्रख्यात होकर उपकार करके उन्नति करते आये हैं, वैसे ही सब विद्वान् लोग मिलकर संसार में शुभगुणों से उपकार करें ॥१६॥
टिप्पणी: १६−(अग्ने) हे विद्वन् (चरुः) भृमृशीङ्तृचरि० उ० १।७। चर गतिभक्षणयोः-उ। चरुर्मेघनाम-निघ० १।१०। चरुर्मृच्चयो भवति चरतेर्वा समुचन्त्यस्मादापः-निरु० ६।११। चरुं ज्ञानलाभं मेघं वा-दयानन्दभाष्ये, ऋक्० १।७।६। बोधः (यज्ञियः) पूजार्हः (त्वा) ब्रह्मचारिणम् (अधि अरुक्षत्) उन्नतं कृतवान् (शुचिः) शुद्धस्वभावः (तपिष्ठः) तप्तृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृलोपः। तप्तृतमः। अतिशयेन तपस्वी (तपसा) ब्रह्मचर्यादितपश्चरणेन (तप) तप्तमुपकृतं कुरु (एनम्) बोधम् (आर्षेयाः) ढश्छन्दसि। पा० ४।४।१०६। इति ऋषिः-ढ प्रत्ययो बाहुलकात्। ऋषिषु विख्यात आर्षेयः महीधरभाष्ये, यजु० ७।४६। आर्षेय, ऋषिषु साधुस्तत्सम्बुद्धौ-दयानन्दभाष्ये, यजु० २१।६१। ऋषिषु विख्याताः साधवो वा (दैवाः) दिव्यगुणयुक्ताः (अभिसंगत्य) सर्वतो मिलित्वा (भागम्) सेवनीयं बोधम् (इमम्) (तपिष्ठाः) तप्तृतमाः। तपस्वितमाः (ऋतुभिः) वसन्तादिकालविशेषैः (तपन्तु) तप्तमुपकृतं कुर्वन्तु ॥