151 बार पढ़ा गया
दे॒वाः पि॒तरो॑ मनु॒ष्या गन्धर्वाप्स॒रस॑श्च॒ ये। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ साति॑रा॒त्रमति॑ द्रव ॥
पद पाठ
देवा: । पितर: । मनुष्या: । गन्धर्वऽअप्सरस: । च । ये । ते । त्वा । सर्वे । गोप्स्यन्ति । सा । अतिऽरात्रम् । अति । द्रव ॥९.९॥
अथर्ववेद » काण्ड:10» सूक्त:9» पर्यायः:0» मन्त्र:9
पण्डित क्षेमकरणदास त्रिवेदी
वेदवाणी की महिमा का उपदेश।
पदार्थान्वयभाषाः - (देवाः) विजय चाहनेवाले, (पितरः) पालन करनेवाले (मनुष्याः) मनन करनेवाले (च) और (ये) जो (गन्धर्वाप्सरसः) गन्धर्व [पृथिवी धारण करनेवाले] और अप्सर लोग [आकाश में विमान आदि से चलनेवाले, विवेकी लोग] हैं, (ते सर्वे) वे सब (त्वा) तेरी (गोप्स्यन्ति) रक्षा करेंगे, (सा) सो तू (अतिरात्रम्) उत्कृष्ट दान क्रिया को (अति) उत्तमरीति से (द्रव) शीघ्र प्राप्त हो [ग्रहण कर] ॥९॥
भावार्थभाषाः - विद्वान् सर्वोपकारी विवेकी जन वेद की रक्षा करके अत्यन्त दानशील होते हैं ॥९॥
टिप्पणी: ९−(देवाः) विजिगीषवः (पितरः) पालकाः (मनुष्याः) मननशीलाः (गन्धर्वाप्सरसः) अ० २।१।२, ४।३७।२। गो+धृञ् धारणे-व प्रत्ययः, गमादेशः+अप्+सृ गतौ-असि। गां पृथिवीं धरन्तीति गन्धर्वास्ते, अप्सु आकाशे विमानादिना सरन्तीति अप्सरसः ते च पुरुषाः (च) (ये) (सा) सा त्वम् (अतिरात्रम्) राशदिभ्यां त्रिप्। उ० ४।६७। रा दाने−त्रिप्। अहः सर्वैकदेश०। पा० ५।४।८७। अच्। अति उत्कृष्टां रात्रिं दानक्रियाम् (अति) उत्कर्षेण (द्रव) शीघ्रं प्राप्नुहि ॥
