यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। त बिभ्र॑च्च॒न्द्रमा॑ म॒णिमसु॑राणां॒ पुरो॑ऽजयद्दान॒वानां॑ हिर॒ण्ययीः॑। सो अ॑स्मै॒ श्रिय॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । बिभ्रत् । चन्द्रमा: । मणिम् । असुराणाम् । पुर: । अजयत् । दानवानाम् । हिरण्ययी: । स: । अस्मै । श्रियम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१०॥
पण्डित क्षेमकरणदास त्रिवेदी
सब कामनाओं की सिद्धि का उपदेश।
