वांछित मन्त्र चुनें

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भू॒तान्युप॑ तिष्ठन्तु यु॒क्ता म॑ आप स्थ ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । विश्वानि । मा । भूतानि । उप । तिष्ठन्तु । युक्त: । मे । आप: । स्थ ॥५.६॥

अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] तुम (इन्द्रस्य) आत्मा के (ओजः) पराक्रम (स्थ) हो, (इन्द्रस्य) आत्मा के (सहः) पुरुषार्थ (स्थ) हो, (इन्द्रस्य) आत्मा के (बलम्) बल (स्थ) हो, (इन्द्रस्य) आत्मा की (वीर्यम्) वीरता (स्थ) हो, (इन्द्रस्य) आत्मा की (नृम्णम्) शूरता (स्थ) हो। (जिष्णवे) विजयी (योगाय) संयोग के लिये (विश्वानि) सब (भूतानि) उत्पन्न वस्तुएँ (मा) मुझे (उप तिष्ठन्तु) सेवें, (आपः) हे सब विद्याओं में व्यापक विद्वानो ! तुम (मे) मेरे लिये (युक्ताः) योगाभ्यासी [पुरुष] (स्थ) हो ॥६॥
भावार्थभाषाः - मनुष्य यती विद्वानों के सत्सङ्ग द्वारा संसार के सब पदार्थों से उपकार लेकर कार्य सिद्ध करें ॥६॥
टिप्पणी: ६−(विश्वानि) सर्वाणि (मा) माम् (भूतानि) उत्पन्नवस्तूनि (उप तिष्ठन्तु) सेवन्ताम् (युक्ताः) अभ्यस्तयोगाः (मे) मह्यम् (आपः) हे सर्वविद्याव्यापिनो विपश्चितः-यथा दयानन्दभाष्ये, यजु० ६।१७। अन्यत् पूर्ववत्−म० १ ॥