वांछित मन्त्र चुनें

पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्। पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः ॥

मन्त्र उच्चारण
पद पाठ

पैद्व: । हन्ति । कसर्णीलम् । पैद्व: । श्वित्रम् । उत । असितम् । पैद्व: । रथर्व्या: । शिर: । सम् । बिभेद । पृदाक्वा: ॥४.५॥

अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सर्प रूप दोषों के नाश का उपदेश।

पदार्थान्वयभाषाः - (पैद्वः) शीघ्रगामी [पुरुष] (कसर्णीलम्) बुरे मार्ग में छिपे हुए और (पैद्वः) शीघ्रगामी हो (श्वित्रम्) श्वेत (उत) और (असितम्) काले [साँप] को (हन्ति) मारता है। (पैद्वः) शीघ्रगामी ने (रथर्व्याः) दौड़ती हुई (पृदाक्वाः) फुँसकारती हुई [साँपिन] का (शिरः) शिर (सम् बिभेद) तोड़ डाला था ॥५॥
भावार्थभाषाः - फुरतीला वीर पुरुष पूर्वज शूरों के समान साँप और साँपिन रूप शत्रुओं और शत्रुसेना का नाश करे ॥५॥
टिप्पणी: ५−(पैद्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। पद गतौ-व प्रत्ययः, अस्यैकारः पैद्वः=अश्वः-निघ० १।१४। शीघ्रगामी पुरुषः (हन्ति) नाशयति (कसर्णीलम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। क+सरणी+लीङ् श्लेषणे−ड, अकारलोपः। कोः कादेशः। कु कुत्सितायां सरण्यां मार्गे लीनं श्लिष्टम् (पैद्वः) (श्वित्रम्) अ० ३।२७।६। श्वेतम् (उत) अपि च (असितम्) अ० ३।२७।१। कृष्णसर्पम् (रथर्व्या) रथर्यतिर्गतिकर्मा-निघ० २।१४। कॄगॄशॄदॄभ्यो वः। उ० १।१५५। रथर् गतौ-च। जातेरस्त्री०। पा० ४।१।६३। ङीप्। शीघ्रगामिन्याः सर्पिण्याः (शिरः) (सम्) सम्यक् (बिभेद) चिच्छेद (पृदाक्वाः) अ० १।२७।१। पर्द कुत्सिते शब्दे−कः कु, ऊङ्। कुत्सितशब्दकारिण्याः सर्पिण्याः ॥