145 बार पढ़ा गया
अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च। इन्द्रो॒ मेऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ॥
पद पाठ
अघऽअश्वस्य । इदम् । भेषजम् । उभयो: । स्वजस्य । च । इन्द्र: । मे । अहिम् । अघऽयन्तम् । अहिम् । पैद्व: । अरन्धयत् ॥४.१०॥
अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:10
पण्डित क्षेमकरणदास त्रिवेदी
सर्प रूप दोषों के नाश का उपदेश।
पदार्थान्वयभाषाः - (उभयोः) दोनों, (अघाश्वस्य) अघाश्व [कष्ट फैलानेवाले सर्पविशेष] का (च) और (स्वजस्य) स्वज [लिपट जानेवाले सर्पविशेष] का (इदम्) यह (भेषजम्) औषध है। (इन्द्रः) बड़े ऐश्वर्यवाले (पैद्वः) शीघ्रगामी [पुरुष] ने (मे) मेरे लिये (अघायन्तम्) बुरा चीतनेवाले (अहिम्) महाहिंसक (अहिम्) साँप को (अरन्धयत्) मारा है ॥१०॥
भावार्थभाषाः - जैसे वैद्यराज बड़े-बड़े विषैले साँपों को वश में करता है, वैसे ही राजा दुष्टों को वश में करे ॥१०॥
टिप्पणी: १०−(अघाश्वस्य) अघमश्नुते। अघ पापकरणे-अच्+अशू व्याप्तौ-क्वन्। कष्टप्रस्तारकस्य सर्पविशेषस्य (इदम्) (भेषजम्) औषधम् (उभयोः) (स्वजस्य) ष्वञ्ज आलिङ्गने-क। आलिङ्गनशीलस्य। सर्पविशेषस्य (च) (इन्द्रः) परमैश्वर्यवान् (मे) मह्यम् (अहिम्) म० १। महाहिंसकम् (अघायन्तम्) छन्दसि परेच्छायामपि वक्तव्यम्। वा० पा० ३।१।८। अघ-क्यच्-शतृ। अश्वाघस्यात्। पा० ७।४।३७। आत्वं सांहितिकम्। अघमिच्छन्तम् (अहिम्) सर्पम् (पैद्वः) म० ५। शीघ्रगामी (अरन्धयत्) रध हिंसासंराद्ध्योः−णिच्-लङ्। रध्यतिर्वशगमनेऽपि दृश्यते-निरु० १०।४०। मारितवान्। वशीकृतवान् ॥
