इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्। अही॑नामप॒मा रथः॑ स्था॒णुमा॑र॒दथा॑र्षत् ॥
पद पाठ
इन्द्रस्य । प्रथम: । रथ: । देवानाम् । अपर: । रथ: । वरुणस्य । तृतीय: । इत् । अहीनाम् । अपऽमा । रथ: । स्थाणुम् । आरत् । अथ । अर्षत् ॥४.१॥
अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सर्प रूप दोषों के नाश का उपदेश।
पदार्थान्वयभाषाः - (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] का (प्रथमः) पहिला (रथः) रथ है, (देवानाम्) विजयी [शूर मन्त्रियों] का (अपरः) दूसरा (रथः) रथ, और (वरुणस्य) वरुण [श्रेष्ठ वैद्य] का (तृतीयः) तीसरा (इत्) ही है (अहीनाम्) महाहिंसक [साँपों] का (अपमा) खोटा (रथः) रथ (स्थाणुम्) ठूँठ [सूखे पेड़] पर (आरत्) पहुँचा है, (अथ) अब (अर्षत्) वह चला जावे ॥१॥
भावार्थभाषाः - राजा, मन्त्री और वैद्य के प्रयत्न से सर्परूप कुठौर में वर्तमान दुष्ट लोग और दुष्ट रोग प्रजा में से नष्ट हो जावें ॥१॥
टिप्पणी: १−(इन्द्रस्य) परमैश्वर्यवतो राज्ञः (प्रथमः) अग्रगामी (रथः) यानम् (देवानाम्) विजिगीषूणां मन्त्रिणाम् (अपरः) द्वितीयः (रथः) (वरुणस्य) श्रेष्ठस्य वैद्यस्य (तृतीयः) (इत्) एव (अहीनाम्) अ० २।५।५। आङि श्रिहनिभ्यां ह्रस्वश्च। उ० ४।१३८। आङ्+हन हिंसागत्योः-इण् डित्, आङो ह्रस्वत्वम्। अहिरयनादिति अन्तरिक्षे, अयमपीतरोऽहिरेतस्मादेव, निर्ह्रसित उपसर्ग आहन्तीति-निरु० २।१७। आहन्तॄणाम्। महाहिंसकानाम्। सर्पाणाम् (अपमा) अन्येष्वपि दृश्यते। पा० ३।२।१०१। अप+माङ् माने−ड। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। अपमः। अवमः। कुत्सितः। नीचः (रथः) (स्थाणुम्) स्थो णुः। उ० ३।३७। ष्ठा गतिनिवृत्तौ−णु। निश्चलः। शुष्कवृक्षः (आरत्) ऋ गतौ−लुङ्। अगमत् (अथ) इदानीम् (अर्षत्) ऋषी गतौ−लेट्। लेटोऽडाटौ। पा० ३।४।९४। इत्यटि गुणश्च। गच्छेत् स रथः ॥
