वांछित मन्त्र चुनें

यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन्प॑रमे॒ष्ठिनि॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥

मन्त्र उच्चारण
पद पाठ

यथा । यश: । प्रजाऽपतौ । यथा । अस्मिन् । परमेऽस्थिनि । एव । मे । वरण: । मणि: । कीर्तिम्‌ । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.२४॥

अथर्ववेद » काण्ड:10» सूक्त:3» पर्यायः:0» मन्त्र:24


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के पाने का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसा (यशः) यश (प्रजापतौ) प्रजापालक [राजा] में और (यथा) जैसा [यश] (अस्मिन्) इस (परमेष्ठिनि) सब से ऊँची स्थितिवाले [परमात्मा] में है, (एव) वैसे ही (मे) मेरे लिये... म० १७ ॥२४॥
भावार्थभाषाः - स्पष्ट है ॥२४॥
टिप्पणी: २४−(प्रजापतौ) प्रजापालके नृपतौ (परमेष्ठिनि) सर्वोपरिस्थिते परमात्मनि। अन्यत् पूर्ववत् ॥