को अ॑स्मि॒न्नापो॒ व्यदधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः। ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥
क: । अस्मिन् । आप: । वि । अदधात् । विषुऽवृत: । पुरु:ऽवृत: । सिन्धुऽसृत्याय । जाता: । तीव्रा: । अरुणा: । लोहिनी: । ताम्रऽधूम्ना: । ऊर्ध्वा: । अवाची: । पुरुषे । तिरश्ची: ॥२.११॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यशरीर की महिमा का उपदेश।
